|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.25. अध्यायः 025
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
युधिष्ठिरेण नानायानारूढैः पौरैर्भ्रातृभिश्च सह धृतराष्ट्रादिदिदृक्षया शतयूपाश्रमवनप्रवेशः॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
वैशम्पायन उवाच।
आज्ञापयामास ततः सेनां भरतसत्तमः।
अर्जुनप्रमुखैर्गुप्तां लोकपालोपमैर्नरैः॥ 16-25-1(97828)
योगोयोग इति प्रीत्या ततः शब्दो महानभूत्।
क्रोशतां सादिनां तत्र युज्यतां युज्यतामिति॥ 16-25-2(97829)
केचिद्यानैर्नरा जग्मुः केचिदश्वैर्महाजवैः।
काञ्चनैश्च रथैः केचिज्ज्वलितज्वलनोपमैः॥ 16-25-3(97830)
गजेन्द्रैश्च तथैवान्ये केचिदुष्ट्रैर्नराधिप।
पदातयस्तथैवान्ये नखरप्रासयोधिनः॥ 16-25-4(97831)
पौरजानपदाश्चैव यानैर्बहुविधैस्तथा।
अन्वयुः कुरुराजानं धृतराष्ट्रं दिदक्षवः॥ 16-25-5(97832)
स चापि राजवचनादाचार्यो गौतमः कृपः।
सेनामादाय सेनानीः प्रययावाश्रमं प्रति॥ 16-25-6(97833)
ततो द्विजैः परिवृतः कुरुराजो युधिष्ठिरः।
संस्तूयमानो बहुभिः सूतमागधबन्दिभिः॥ 16-25-7(97834)
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि।
रतानीकेन महता निर्जगाम कुरूद्वहः॥ 16-25-8(97835)
गजैश्चाचलसंकाशैर्भीमकर्मा वृकोदरः।
सज्जयन्त्रायुधोपेतैः प्रययौ पवनात्मजः॥ 16-25-9(97836)
माद्रीपुत्रावपि तथा हयारोहौ सुसंवृतौ।
जग्मतुः शीघ्रगमनौ सन्नद्धकवचध्वजौ॥ 16-25-10(97837)
अर्जुनश्च महातेजा रथेनादित्यवर्चसा।
वशी श्वेतैर्हयैर्युक्तैर्दिव्येनान्वगमन्नृपम्॥ 16-25-11(97838)
द्रौपदीप्रमुखाश्चापि स्त्रीसङ्घाः शिबिकागताः।
स्त्र्यध्यक्षगुप्ताः प्रययुर्विसृजन्तोऽमितं वसु॥ 16-25-12(97839)
समृद्धरथहस्त्यश्वं वेणुवीणानुनादितम्।
शुशुभे पाण्डवं सैन्यं तत्तदा भरतर्षभ॥ 16-25-13(97840)
नदीतीरेषु रम्येषु सरःसु च विशाम्पते।
वासान्कृत्वा क्रमेणाथ जग्मुस्ते कुरुपुङ्गवाः॥ 16-25-14(97841)
युयुत्सुश्च महातेजा धौम्यश्चैवि पुरोहितः।
युधिष्ठिरस्य वचनात्पुरगुप्तिं प्रचक्रतुः॥ 16-25-15(97842)
ततो युधिष्ठिरो राजा कुरुक्षेत्रमवातरत्।
क्रमोणोत्तीर्य यमुनां नदीं परमपाविनीम्॥ 16-25-16(97843)
स ददर्शाश्रमं दूराद्राजर्षेस्तस्य धीमतः।
शतयूपस्य कौरव्य धृतराष्ट्रस्य चैव ह॥ 16-25-17(97844)
ततः प्रमुदितः सर्वो जनस्तद्वनमञ्जसा।
विवेश सुमहानादैरापूर्य भरतर्षभ॥ ॥ 16-25-18(97845)
इति श्रीमन्महाभारते आश्रमिवासिकपर्वणि आश्रमिवासपर्वणि पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-25-3 यानैमनुष्यवाह्यः॥ 7-25-4 नखरप्रासः व्याघ्रनखवत्पराचीनफलककुक्षिर्यः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|